|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.21. अध्यायः 021
Mahabharata - Vana Parva - Chapter Topics
कृष्णसाल्वयोर्युद्धम् ॥ 1 ॥ साल्वेन स्वमायासृष्टवसुदेवस्य शिरश्छेदनप्रदर्शनेन कृष्णव्यामोहनम् ॥ 2 ॥ ततो मुहूर्तेन प्रतिबुद्धेन कृष्णेन स्वानुभूतस्य मायिकत्वाध्यवसायः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वासुदेव उवाच। 3-21-0x(1838)(16470)
एवं स पुरुषव्याघ्रः साल्वो राज्ञं महारिपुः।
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः ॥ 3-21-1(16471)
ततः शतघ्नीश्च महागदाश्च
दीप्ताश्च शूलान्मुसलानसींश्च।
चिक्षेप रोषान्मयि मन्दबुद्धिः
साल्वो महाराज जयाभिकाङ्क्षी ॥ 3-21-2(16472)
तानाशुगैरापततोऽहमाशु
निवार्य तूर्णं खगमान्ख एव।
द्विधा त्रिता चाच्छिनमाशु मुक्तै-
स्ततोऽन्तरिक्षे निनदो बभूव ॥ 3-21-3(16473)
ततः शतसहस्रेण शराणां नतपर्वणाम्।
दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥ 3-21-4(16474)
ततो मामब्रवीद्वीर दारुको विह्वलन्निव।
स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः।
अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति ॥ 3-21-5(16475)
इति तस्य निशम्याहं सारथेः करुणं वचः।
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥ 3-21-6(16476)
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये।
अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः ॥ 3-21-7(16477)
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्।
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥ 3-21-8(16478)
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे।
अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम् ॥ 3-21-9(16479)
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्।
त्वरितो रथमारोप्य सौहृदादिव भारत ॥ 3-21-10(16480)
आहुकस्य वचो वीर तस्यैव परिचारकः।
विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर ॥ 3-21-11(16481)
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः।
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥ 3-21-12(16482)
उपयात्वा तु साल्वेन द्वारकां वृष्णिनन्दन।
विषक्ते त्वयि दुर्धर्ष इतः शूरसुतो बलात् ॥ 3-21-13(16483)
तदलं साधुयुद्धेन निवर्तस्व जनार्दन।
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥ 3-21-14(16484)
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः।
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च ॥ 3-21-15(16485)
सात्यकिं बलदेवं च प्रद्युम्नं च महांरथम्।
जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम् ॥ 3-21-16(16486)
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन।
तेषु रक्षां समाधाय प्रयातः सौभयातने ॥ 3-21-17(16487)
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा।
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्।
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥ 3-21-18(16488)
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन।
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥ 3-21-19(16489)
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः।
बलदेवमुखाः सर्व इति मे निश्चिता मतिः ॥ 3-21-20(16490)
सोहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः।
अविह्वलो महाराज पुनः साल्वमयोधयम् ॥ 3-21-21(16491)
तदोऽपश्यं महाराज प्रपतन्तमहं तदा।
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥ 3-21-22(16492)
तस्य रूपं प्रपततः पितुर्मम नराधिप।
ययातेः क्षीणपुण्यस्य स्वर्गादिव भहीतलम् ॥ 3-21-23(16493)
विशीर्णमलिनोष्णीपप्रकीर्णाम्बरमूर्धजः।
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥ 3-21-24(16494)
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम।
मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥ 3-21-25(16495)
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्।
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥ 3-21-26(16496)
प्रसार्य बाहू पततः प्रसार्य चरणावपि।
रूपं पितुर्मे विबभौ शकुने- पततो यथा ॥ 3-21-27(16497)
तं पतन्तं महाबाहो शूलपट्टसपाणयः।
अभिघ्नन्तो भृशं वीर मम चोतोह्यकम्पयन् ॥ 3-21-28(16498)
ततो मुहूर्तात्प्रतिलभ्य संज्ञा-
महं तदा वीर महाविमर्दे।
न तत्रसौमं न रिपुं च साल्वं
पश्यामि वृद्धं पितरं न चापि ॥ 3-21-29(16499)
ततो ममासीन्मनसि मायेयमिति निश्चितम्।
प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान् ॥ 3-21-30(16500)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकविंशोऽध्यायः ॥ 21 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-21-8 बाणरोत्पीडात् क्षतस्थानात्। उल्वणमुत्कटम् ॥ 3-21-9 अस्तम्भयमाश्वासितवान् ॥ 3-21-12 पितृसख आहुकः ॥ 3-21-13 विषक्तेऽन्यत्र व्यासक्ते। शूरसुतो वसुदेवः ॥ 3-21-16 जगर्हे निन्दितवान् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|